हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   Sanatana Dharm సనాతన ధర్మం
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Yuddha Kanda Sarga 98 – युद्धकाण्ड अष्टनवतितमः सर्गः (९८)


॥ महोदरवधः ॥

हन्यमाने बले तूर्णमन्योन्यं ते महामृधे ।
सरसीव महाघर्मे सूपक्षीणे बभूवतुः ॥ १ ॥

स्वबलस्य विघातेन विरूपाक्षवधेन च ।
बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ २ ॥

प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः ।
बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ॥ ३ ॥

उवाच च समीपस्थं महोदरमरिन्दमम् ।
अस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता ॥ ४ ॥

जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ।
भर्तृपिण्डस्य कालोऽयं निर्देष्टुं साधु युध्यताम् ॥ ५ ॥

एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः ।
प्रविवेशारिसेनां तां पतङ्ग इव पावकम् ॥ ६ ॥

ततः स कदनं चक्रे वानराणां महाबलः ।
भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥ ७ ॥

वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः ।
प्रविश्यारिबलं भीमं जघ्नुस्ते रजनीचरान् ॥ ८ ॥

महोदरस्तु सङ्क्रुद्धः शरैः काञ्चनभूषणैः ।
चिच्छेद पाणिपादोरून्वानराणां महाहवे ॥ ९ ॥

ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम् ।
दिशो दश द्रुताः केचित्केचित्सुग्रीवमाश्रिताः ॥ १० ॥

प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् ।
अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥ ११ ॥

प्रगृह्य विपुलां घोरां महीधरसमां शिलाम् ।
चिक्षेप च महातेजास्तद्वधाय हरीश्वरः ॥ १२ ॥

तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः ।
असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥ १३ ॥

रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा ।
निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ॥ १४ ॥

तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः ।
सालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ॥ १५ ॥

शरैश्च विददारैनं शूरः परपुरञ्जयः ।
स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ॥ १६ ॥

आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् ।
परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥ १७ ॥

तस्माद्धतहयाद्वीरः सोवप्लुत्य महारथात् ।
गदां जग्राह सङ्क्रुद्धो राक्षसोऽथ महोदरः ॥ १८ ॥

गदापरिघहस्तौ तौ युधि वीरौ समीयतुः ।
नर्दन्तौ गौवृषप्रख्यौ घनाविव सविद्युतौ ॥ १९ ॥

ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः ।
ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥ २० ॥

गदां तां सुमहाघोरामापतन्तीं महाबलः ।
सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे ॥ २१ ॥

आजघान गदां तस्य परिघेण हरीश्वरः ।
पपात स गदोद्भिन्नः परिघस्तस्य भूतले ॥ २२ ॥

ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् ।
आयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥ २३ ॥

स तमुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम् ।
भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥ २४ ॥

ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः ।
तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥ २५ ॥

जघ्नतुस्तौ तदाऽन्योन्यं नेदतुश्च पुनः पुनः ।
तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥ २६ ॥

उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम् ।
भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ॥ २७ ॥

जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परन्तपौ ।
आजहार ततः खड्गमदूरपरिवर्तिनम् ॥ २८ ॥

राक्षसश्चर्मणा सार्धं महावेगो महोदरः ।
तथैव च महाखड्गं चर्मणा पतितं सह ॥ २९ ॥

जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ।
तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् ॥ ३० ॥

उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ।
दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः ॥ ३१ ॥

अन्योन्यमभिसङ्क्रुद्धौ जये प्रणिहितावुभौ ।
स तु शूरो महावेगो वीर्यश्लाघी महोदरः ॥ ३२ ॥

महाचर्मणि तं खड्गं पातयामास दुर्मतिः ।
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः ॥ ३३ ॥

जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ।
निकृत्तशिरसस्तस्य पतितस्य महीतले ॥ ३४ ॥

तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते ।
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः ।
चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥ ३५ ॥

विषण्णवदनाः सर्वे राक्षसा दीनचेतसः ।
विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥ ३६ ॥

महोदरं तं विनिपात्य भूमौ
महागिरेः कीर्णमिवैकदेशम् ।
सूर्यात्मजस्तत्र रराज लक्ष्म्या
सूर्यः स्वतेजोभिरिवाप्रधृष्यः ॥ ३७ ॥

अथ विजयमवाप्य वानरेन्द्रः
समरमुखे सुरयक्षसिद्धसङ्घैः ।
अवनितलगतैश्च भूतसङ्घैः
हरूषसमाकुलितैः स्तुतो महात्मा ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टनवतितमः सर्गः ॥ ९८ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.